||Sundarakanda ||

|| Sarga 25|( Summary in Sanskrit & Telugu)

 

||om tat sat||

सुंदरकांड.
अथ पंचविंशस्सर्गः

अथ असौम्यानां राक्षसीनां बहु दारुणं परुषं वदंतीनां श्रुत्वा जनकात्मजा रुरोद॥

एवं उक्त्वा तु राक्षसीभिः मनस्विनी वैदेही परम त्रस्ता भाष्पगद्गदया गिरा उवाच॥ मानुषी राक्षसस्य भार्या भवितुं न अर्हति । मां सर्वा कामं खादत । वो वचः न करिष्यामि ॥

राक्षसी मध्यगता रावणेन तर्जिता सुरसुतोपमा सा सीता दुःखार्ता शर्म न लेभे ॥वने यूधपरिभ्रष्टा कोकैः आर्दिता मृगी इव आत्मना अंगं विशांतिः अधिकं वेपते स्म॥शोकेन भग्नमानस्य सा अशोकस्य पुष्पितां विपुलं शाखाम् आलंब्य भर्तारं चिंतयामास॥

तदा सा नेत्रजलस्रवैः विपुलौ स्तनौ स्नापयंती चिंतयंती शोकस्य अंतं न अधिगच्छति ॥सा प्रवाते पतिता वेपमाना कदळी यथा राक्षसीनां भयत्रस्ता विवर्णवदना अभवत् ॥ वेपंत्याः तस्याः दीर्घविपुला कंपिनी सा सीतया वेणी व्यालीव परिसर्पती ददृशे॥

दुःखार्ता शोकोफहतचेतना आर्ता सा मैथिली निःश्वसंती अश्रूणि व्यसृज विललाप ह ॥दुःखार्ता हा राम इति पुनः हा लक्ष्मण इति हा ममश्वश्रु कौसल्ये हासुमित्रे इति विललाप ह॥

' यत्र अहं एवं क्रूराभिः राक्षसीभिः आर्दिता इह रामेण हीना दुःखार्ता यदा मुहूर्तं अपि जीवामि तदा स्त्रियावा पुरुषस्य वा अकाले मृत्युः दुर्लभः पंडितः समुदाहृतः इति अयं लोकप्रवादः सत्यः॥ अल्पपुण्यया कृपणा एषा अनाथवत् समुद्रमध्ये वायुवेगैः आहता पूर्णा नौः इव विनशिष्यामि॥ भर्तारं तं अपश्यंती राक्षसी वशं आगता तोयहतं तीरं यथा शोकेन सीदामि खलु॥पद्मदलपत्राक्षं सिंह विक्रांत गामिनं कृतज्ञं प्रियवादिनं मे नाथं पस्यंति (ते) धन्याः॥ विदितात्मना तेन रामेण हीनायाः मम तीक्ष्णं विषं आस्वाद्येव जीवितं सर्वथा दुर्लभम्॥येन मया घोरं सुदारुणं इदं दुःखं प्राप्यते कीदृशं महापापं मया पुरा जन्मांतरे कृतं॥महता शोकेन आवृता जीवितं त्यक्तुं इच्छामि । रामः मया आसाद्यते न यदा अहं राक्षसीभिः सुरक्षिता॥

मानुष्यं धिक् अस्तु । परवश्यतां धिक् अस्तु । यत् आत्मछंदेन जिवितं परित्यक्तुं अपि न शक्यं खलु ॥

इति सीता दुःखार्ता चिंतयामस ॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचविंशस्सर्गः॥